आनंदों ब्रह्मेति व्यजानात् !
तैत्तिरीय उपनिषद् (भृगुवल्ली)
आनन्दो ब्रह्मेति व्यजानात्।
आनन्दाध्येव खल्विमानि भूतानि जायन्ते, आनन्देन जातानि जीवन्ति, आनन्दं प्रयन्त्यभिसंविशन्तीति ॥
आनंद का स्वरूप: महर्षि भृगु ने अपने पिता वरुण के मार्गदर्शन में तपस्या करके यह अंतिम ज्ञान प्राप्त किया कि संपूर्ण सृष्टि का आधार परम सत्य या ब्रह्म कोई और नहीं बल्कि असीम ‘आनंद’ है।
उत्पत्ति और स्थिति: इस ब्रह्मांड के सारे जीव आनंद से ही उत्पन्न होते हैं, जन्म लेने के बाद आनंद से ही जीवित रहते हैं, और अंत में उसी आनंद (ब्रह्म) में विलीन हो जाते हैं।
विस्तार से जानना चाहते हैं ? तो आगे पढ़िए :
भृगु॒र्वै वा॑रु॒णिः । वरु॑णं॒ पित॑र॒मुप॑ससार ।
अधी॑हि भगवो॒ ब्रह्मेति॑ । तस्मा॑ ए॒तत्प्रो॑वाच ।
अन्नं॑ प्रा॒णं चक्षु॒श्श्रोत्रं॒ मनो॒ वाच॒मिति॑ ।
तग्ं हो॑वाच । यतो॒ वा इ॒मानि॒ भूता॑नि॒ जाय॑न्ते ।
येन॒ जाता॑नि॒ जीव॑न्ति ।
यत्प्रय॑न्त्य॒भिसंवि॑शन्ति । तद्विजि॑ज्ञासस्व । तद्ब्रह्मेति॑ ।
स तपो॑ऽतप्यत । स तप॑स्त॒प्त्वा ॥ १ ॥
इति प्रथमोऽनुवाकः ॥
अन्नं॒ ब्रह्मेति॒ व्य॑जानात् ।
अ॒न्नाद्ध्ये॑व खल्वि॒मानि॒ भुता॑नि॒ जाय॑न्ते ।
अन्ने॑न॒ जाता॑नि॒ जीव॑न्ति ।
अन्नं॒ प्रय॑न्त्य॒भिसंवि॑श॒न्तीति॑ । तद्वि॒ज्ञाय॑ ।
पुन॑रे॒व वरु॑णं॒ पित॑र॒मुप॑ससार ।
अधी॑हि भगवो॒ ब्रह्मेति॑ । तग्ं हो॑वाच ।
तप॑सा॒ ब्रह्म॒ विजि॑ज्ञासस्व । तपो॒ ब्रह्मेति॑ ।
स तपो॑ऽतप्यत । स तप॑स्त॒प्त्वा ॥ १ ॥
इति द्वितीयोऽनुवाकः ॥
प्रा॒णो ब्र॒ह्मेति॒ व्य॑जानात् ।
प्रा॒णाद्ध्ये॑व खल्वि॒मानि॒ भूता॑नि॒ जाय॑न्ते ।
प्रा॒णेन॒ जाता॑नि॒ जीव॑न्ति ।
प्रा॒णं प्रय॑न्त्य॒भिसंवि॑श॒न्तीति॑ । तद्वि॒ज्ञाय॑ ।
पुन॑रे॒व वरु॑णं॒ पित॑र॒मुप॑ससार ।
अधी॑हि भगवो॒ ब्रह्मेति॑ । तग्ं हो॑वाच ।
तप॑सा॒ ब्रह्म॒ विजि॑ज्ञासस्व । तपो॒ ब्रह्मेति॑ ।
स तपो॑ऽतप्यत । स तप॑स्त॒प्त्वा ॥ १ ॥
इति तृतीयोऽनुवाकः ॥
मनो॒ ब्रह्मेति॒ व्य॑जानात् ।
मन॑सो॒ ह्ये॑व खल्वि॒मानि॒ भूता॑नि॒ जाय॑न्ते ।
मन॑सा॒ जाता॑नि॒ जीव॑न्ति ।
मन॒: प्रय॑न्त्य॒भिसंवि॑श॒न्तीति॑ । तद्वि॒ज्ञाय॑ ।
पुन॑रे॒व वरु॑णं॒ पित॑र॒मुप॑ससार ।
अधी॑हि भगवो॒ ब्रह्मेति॑ । तग्ं हो॑वाच ।
तप॑सा॒ ब्रह्म॒ विजि॑ज्ञासस्व । तपो॒ ब्रह्मेति॑ ।
स तपो॑ऽतप्यत । स तप॑स्त॒प्त्वा ॥ १ ॥
इति चतुर्थोऽनुवाकः ॥
वि॒ज्ञानं॒ ब्रह्मेति॒ व्य॑जानात् ।
वि॒ज्ञाना॒द्ध्ये॑व खल्वि॒मानि॒ भूता॑नि॒ जाय॑न्ते ।
वि॒ज्ञाने॑न॒ जाता॑नि॒ जीव॑न्ति ।
वि॒ज्ञानं॒ प्रय॑न्त्य॒भिसंवि॑श॒न्तीति॑ । तद्वि॒ज्ञाय॑ ।
पुन॑रे॒व वरु॑णं॒ पित॑र॒मुप॑ससार ।
अधी॑हि भगवो॒ ब्रह्मेति॑ । तग्ं हो॑वाच ।
तप॑सा॒ ब्रह्म॒ विजि॑ज्ञासस्व । तपो॒ ब्रह्मेति॑ ।
स तपो॑ऽतप्यत । स तप॑स्त॒प्त्वा ॥ १ ॥
इति पञ्चमोऽनुवाकः ॥
आ॒न॒न्दो ब्र॒ह्मेति॒ व्य॑जानात् ।
आ॒नन्दा॒द्ध्ये॑व खल्वि॒मानि॒ भूता॑नि॒ जाय॑न्ते ।
आ॒न॒न्देन॒ जाता॑नि॒ जीव॑न्ति ।
आ॒न॒न्दं प्रय॑न्त्य॒भिसंवि॑श॒न्तीति॑ ।
सैषा भा᳚र्ग॒वी वा॑रु॒णी वि॒द्या । प॒र॒मे व्यो॑म॒न्प्रति॑ष्ठिता ।
स य ए॒वं वेद॒ प्रति॑तिष्ठति । अन्न॑वानन्ना॒दो भ॑वति ।
म॒हान्भ॑वति प्र॒जया॑ प॒शुभि॑र्ब्रह्मवर्च॒सेन॑ ।
म॒हान्की॒र्त्या ॥ १ ॥